|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.34. अध्यायः 034
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण भीमंप्रति स्वेन प्रतिज्ञाया दुस्त्यजत्वोक्तिपूर्वकं प्रतिज्ञाकालावसानप्रतिपालनविधानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-34-0x(1860)(17023)
स एवमुक्तस्तु महानुभावः
सत्यव्रतो भीमसेनेन राजा।
अजातशत्रुस्तदनन्तरं वै
धैर्यान्वितो वाक्यमिदं बभाषे ॥ 3-34-1(17024)
असंशयं भारत सत्यमेत-
द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि।
न त्वां विगर्हे प्रतिकूलमेत-
न्ममानयाद्धि व्यसनं व आगात् ॥ 3-34-2(17025)
अहं ह्यक्षानन्वपद्यं जिहीर्षन्
राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात्।
तन्मां शठः कितव प्रत्यदेवी-
त्सुयोधनार्थं सुबलस्य पुत्रः ॥ 3-34-3(17026)
महामायः शकुनिः पार्वतीयः
सभामध्ये प्रवपन्नक्षपूगान्।
अमायिनं मायया प्रत्यजैषी-
त्ततोऽपश्यं वृजिनं भीमसेन ॥ 3-34-4(17027)
अक्षांश्च दृष्ट्वा शकुनेर्यथावत्
कामानुकूलानयुजो युजश्च।
शक्यो नियन्तुमभविष्यदात्मा
मन्युस्तु हन्यात्पुरुषस्य धैर्यम् ॥ 3-34-5(17028)
यन्तुं नात्मा शक्यते पौरुषेण
मानेन वीर्येण च तात नद्धः।
न ते वाचो भीमसेनाभ्यसूये
मन्ये तथा तद्भवितव्यमासीत् ॥ 3-34-6(17029)
स नो राजा धृतराष्ट्रस्य पुत्रो
न्यपातयद्व्यसने राज्यमिच्छन्।
दास्यं च नोऽगमयद्भीमसेन
यत्राभवच्छरणं द्रौपदी नः ॥ 3-34-7(17030)
त्वं चापि तद्वेत्थ धनंजयश्च
पुनर्द्यूतायागतास्तां सभां नः।
यन्माऽब्हवीद्धृतराष्ट्रस्य पुत्र
एकग्लहार्थं भरतानां समक्षम् ॥ 3-34-8(17031)
वने समा द्वादश राजपुत्र
यथाकामं विदितमजातशत्रो।
अथापरं चाविदितश्चरेथाः
सर्वैः सह भ्रातृभिश्छद्मरूपः ॥ 3-34-9(17032)
त्वां चेच्छ्रुत्वा तात तथा चरन्त-
मवभोत्स्यन्ते भारतानां चराश्च।
अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं
निश्चित्य तत्प्रतिजानीहि पार्थ ॥ 3-34-10(17033)
चरैश्चेन्नो विदितः कालमेतं
युक्तो राजन्मोहयित्वा मदीयान्।
ब्रवीमि सत्यं कुरुसंसदीह
तवैव ता भारत पञ्च नद्यः ॥ 3-34-11(17034)
वयं चैतद्भारत सर्व एव
त्वया जिताः कालमपास्य भोगान्।
चरेम इत्याह पुरा स राजा
मध्ये कुरूणां स मयोक्तस्तथेति ॥ 3-34-12(17035)
तत्र द्यूतमभवन्नो जघन्यं
यस्मिञ्जिताः प्रव्रजिताश् सर्वे।
इत्थं तु देशाननुसंचरामो
वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥ 3-34-13(17036)
सुयोधनश्चापि न शान्तिमिच्छत्
भूयः स मन्योर्वशमन्वगच्छत्।
उद्योजयामास कुरूंश्च सर्वान्
येचास्य केचिद्वशमन्वगच्छन् ॥ 3-34-14(17037)
तां सिद्धिमास्थाय सतां सकाशे
को नाम जह्यादिह राज्यहेतोः।
आर्यस्य मन्ये मरणाद्गरीयो
यद्धर्ममुत्क्रम्य महीं प्रशासेत् ॥ 3-34-15(17038)
तदैव चेद्वीरकर्माकरिष्यो
यदा द्यूते परिघं पर्यमृक्षः।
बाहू दिधक्षन्वारितः फल्गुनेन
किं दुष्कृतंभीम तदाऽभविष्यत् ॥ 3-34-16(17039)
प्रागेव चैवं समयक्रियायाः
किं नाब्रवीः पौरुषमाविदानः।
प्राप्तं तु कालं त्वभिपद्यपश्चात्
किं मामिदानीमतिवेलमात्थ ॥ 3-34-17(17040)
भूयोपि दुःखं मम भीमसेन
दूये विषस्येव रसं हि पीत्वा।
यद्याज्ञसेनीं परिक्लिश्यमानां
संदृश्य तत्क्षान्तमिति स्म भीम ॥ 3-34-18(17041)
न त्वद्य शक्यं भरतप्रवीर
कृत्वा यदुक्तं कुरुवीरमध्ये।
कालं प्रतीक्षस्व सुखोदयाय
पाकं फलानामिव बीजवापः ॥ 3-34-19(17042)
यदा हि पूर्वं निकृतोनिकृन्ते-
द्वैरं सपुष्पं सफलं विदित्वा।
महागुणं हरति हि पौरुषेण
तदा वीरो जीवति जीवलोके ॥ 3-34-20(17043)
श्रियं च लोके लभते समग्रां
मन्ये चास्मै शत्रवः सन्नमन्ते।
मित्राणि चैनमतिरागाद्भजन्ते
देवा इवेनद्रमुपजीवन्ति चैनम् ॥ 3-34-21(17044)
मम प्रतिज्ञां च निबोध सत्यां
वृणे सत्यममृतीज्जीविताच्च।
राज्यं च पुत्राश्च यशो धनं च
सर्वं न सत्यस्य कलामुपैति ॥ 3-34-22(17045)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुस्त्रिंशोऽष्यायः ॥ 34 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-34-3 अन्वपद्यमनुसृतवात् ॥ 3-34-4 प्रवपन् पातयन्। अक्षपूगान् पाशसमूहान्। वृजिनं दुःखदं व्यसनम् ॥ 3-34-5 अयुजो विषमान्। युजः समान्। शक्य इति यः पुरुषस्य धैर्यं हन्यात् स सन्युर्यदि नाभविष्यत्तर्ह्यात्मा मनो नियन्तुं शक्यः अभविष्यदित्यध्याहृत्य योज्यम् ॥ 3-34-9 समा वर्षाणि। अथापरं वर्षम्। छद्मगूढ इति. झ. पाठः ॥ 3-34-10 अवभोत्स्यन्ते ज्ञास्यन्ति। बुद्ध्येरन्वै भारतानामिति क. पाठः ॥ 3-34-11 नो इति निपातः। वितस्तादिपञ्चनद्युपलक्षितो देशः ॥ 3-34-12 सर्वे शतमपि भ्रातरः। स राजा दुर्योधनः ॥ 3-34-13 नोऽस्माकम्। जघन्यं नीचम्। कृच्छ्ररूपाः क्लिष्टरूपाः। वनानि दुर्गाणि च घोररूपा इति क. ध. पाठः ॥ 3-34-14 शान्तिं नेच्छन् अनिच्छन्। उद्योजयामासोत्कर्षेण स्वेच्छया तेषु तेषु द्रगदेशादिपालनकार्येष्विष्टान्योजितवान् ॥ 3-34-15 तं संधिमास्थायेति झ. ट. पाठः ॥ 3-34-16 पर्यमृक्षः परामृष्टवानसि। दिधक्षन् दग्धुमिच्छन् ॥ 3-34-17 आविदानो जानन्। प्राप्तं कालं कालतुल्यां विपदमभिपद्य स्वीकृत्य ॥ 3-34-18 भूयोपि बह्वपि। दूये उपतप्ये ॥ 3-34-19 बीजवापः कृषीबलः। पक्तिं फलानामिति झ. ध. पाठः ॥ 3-34-20 वैरं वैरिसमूहम्। सपुष्पं सफलं विदित्वा पुष्टतरं ज्ञात्वा यदि निकृन्तेत् छिन्द्यात् तदा हि प्रसिद्धं महागुणं महान्तं गुणं हरति आहरति ॥ 3-34-22 अमृतात् देवभावात्। कलां षोडशं भागम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|