(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.34. अध्यायः 034
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण भीमंप्रति स्वेन प्रतिज्ञाया दुस्त्यजत्वोक्तिपूर्वकं प्रतिज्ञाकालावसानप्रतिपालनविधानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-34-0x(1860)(17023)
स एवमुक्तस्तु महानुभावः
सत्यव्रतो भीमसेनेन राजा।
अजातशत्रुस्तदनन्तरं वै
धैर्यान्वितो वाक्यमिदं बभाषे ॥ 3-34-1(17024)
असंशयं भारत सत्यमेत-
द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि।
न त्वां विगर्हे प्रतिकूलमेत-
न्ममानयाद्धि व्यसनं व आगात् ॥ 3-34-2(17025)
अहं ह्यक्षानन्वपद्यं जिहीर्षन्
राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात्।
तन्मां शठः कितव प्रत्यदेवी-
त्सुयोधनार्थं सुबलस्य पुत्रः ॥ 3-34-3(17026)
महामायः शकुनिः पार्वतीयः
सभामध्ये प्रवपन्नक्षपूगान्।
अमायिनं मायया प्रत्यजैषी-
त्ततोऽपश्यं वृजिनं भीमसेन ॥ 3-34-4(17027)
अक्षांश्च दृष्ट्वा शकुनेर्यथावत्
कामानुकूलानयुजो युजश्च।
शक्यो नियन्तुमभविष्यदात्मा
मन्युस्तु हन्यात्पुरुषस्य धैर्यम् ॥ 3-34-5(17028)
यन्तुं नात्मा शक्यते पौरुषेण
मानेन वीर्येण च तात नद्धः।
न ते वाचो भीमसेनाभ्यसूये
मन्ये तथा तद्भवितव्यमासीत् ॥ 3-34-6(17029)
स नो राजा धृतराष्ट्रस्य पुत्रो
न्यपातयद्व्यसने राज्यमिच्छन्।
दास्यं च नोऽगमयद्भीमसेन
यत्राभवच्छरणं द्रौपदी नः ॥ 3-34-7(17030)
त्वं चापि तद्वेत्थ धनंजयश्च
पुनर्द्यूतायागतास्तां सभां नः।
यन्माऽब्हवीद्धृतराष्ट्रस्य पुत्र
एकग्लहार्थं भरतानां समक्षम् ॥ 3-34-8(17031)
वने समा द्वादश राजपुत्र
यथाकामं विदितमजातशत्रो।
अथापरं चाविदितश्चरेथाः
सर्वैः सह भ्रातृभिश्छद्मरूपः ॥ 3-34-9(17032)
त्वां चेच्छ्रुत्वा तात तथा चरन्त-
मवभोत्स्यन्ते भारतानां चराश्च।
अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं
निश्चित्य तत्प्रतिजानीहि पार्थ ॥ 3-34-10(17033)
चरैश्चेन्नो विदितः कालमेतं
युक्तो राजन्मोहयित्वा मदीयान्।
ब्रवीमि सत्यं कुरुसंसदीह
तवैव ता भारत पञ्च नद्यः ॥ 3-34-11(17034)
वयं चैतद्भारत सर्व एव
त्वया जिताः कालमपास्य भोगान्।
चरेम इत्याह पुरा स राजा
मध्ये कुरूणां स मयोक्तस्तथेति ॥ 3-34-12(17035)
तत्र द्यूतमभवन्नो जघन्यं
यस्मिञ्जिताः प्रव्रजिताश् सर्वे।
इत्थं तु देशाननुसंचरामो
वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥ 3-34-13(17036)
सुयोधनश्चापि न शान्तिमिच्छत्
भूयः स मन्योर्वशमन्वगच्छत्।
उद्योजयामास कुरूंश्च सर्वान्
येचास्य केचिद्वशमन्वगच्छन् ॥ 3-34-14(17037)
तां सिद्धिमास्थाय सतां सकाशे
को नाम जह्यादिह राज्यहेतोः।
आर्यस्य मन्ये मरणाद्गरीयो
यद्धर्ममुत्क्रम्य महीं प्रशासेत् ॥ 3-34-15(17038)
तदैव चेद्वीरकर्माकरिष्यो
यदा द्यूते परिघं पर्यमृक्षः।
बाहू दिधक्षन्वारितः फल्गुनेन
किं दुष्कृतंभीम तदाऽभविष्यत् ॥ 3-34-16(17039)
प्रागेव चैवं समयक्रियायाः
किं नाब्रवीः पौरुषमाविदानः।
प्राप्तं तु कालं त्वभिपद्यपश्चात्
किं मामिदानीमतिवेलमात्थ ॥ 3-34-17(17040)
भूयोपि दुःखं मम भीमसेन
दूये विषस्येव रसं हि पीत्वा।
यद्याज्ञसेनीं परिक्लिश्यमानां
संदृश्य तत्क्षान्तमिति स्म भीम ॥ 3-34-18(17041)
न त्वद्य शक्यं भरतप्रवीर
कृत्वा यदुक्तं कुरुवीरमध्ये।
कालं प्रतीक्षस्व सुखोदयाय
पाकं फलानामिव बीजवापः ॥ 3-34-19(17042)
यदा हि पूर्वं निकृतोनिकृन्ते-
द्वैरं सपुष्पं सफलं विदित्वा।
महागुणं हरति हि पौरुषेण
तदा वीरो जीवति जीवलोके ॥ 3-34-20(17043)
श्रियं च लोके लभते समग्रां
मन्ये चास्मै शत्रवः सन्नमन्ते।
मित्राणि चैनमतिरागाद्भजन्ते
देवा इवेनद्रमुपजीवन्ति चैनम् ॥ 3-34-21(17044)
मम प्रतिज्ञां च निबोध सत्यां
वृणे सत्यममृतीज्जीविताच्च।
राज्यं च पुत्राश्च यशो धनं च
सर्वं न सत्यस्य कलामुपैति ॥ 3-34-22(17045)

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुस्त्रिंशोऽष्यायः ॥ 34 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-34-3 अन्वपद्यमनुसृतवात् ॥ 3-34-4 प्रवपन् पातयन्। अक्षपूगान् पाशसमूहान्। वृजिनं दुःखदं व्यसनम् ॥ 3-34-5 अयुजो विषमान्। युजः समान्। शक्य इति यः पुरुषस्य धैर्यं हन्यात् स सन्युर्यदि नाभविष्यत्तर्ह्यात्मा मनो नियन्तुं शक्यः अभविष्यदित्यध्याहृत्य योज्यम् ॥ 3-34-9 समा वर्षाणि। अथापरं वर्षम्। छद्मगूढ इति. झ. पाठः ॥ 3-34-10 अवभोत्स्यन्ते ज्ञास्यन्ति। बुद्ध्येरन्वै भारतानामिति क. पाठः ॥ 3-34-11 नो इति निपातः। वितस्तादिपञ्चनद्युपलक्षितो देशः ॥ 3-34-12 सर्वे शतमपि भ्रातरः। स राजा दुर्योधनः ॥ 3-34-13 नोऽस्माकम्। जघन्यं नीचम्। कृच्छ्ररूपाः क्लिष्टरूपाः। वनानि दुर्गाणि च घोररूपा इति क. ध. पाठः ॥ 3-34-14 शान्तिं नेच्छन् अनिच्छन्। उद्योजयामासोत्कर्षेण स्वेच्छया तेषु तेषु द्रगदेशादिपालनकार्येष्विष्टान्योजितवान् ॥ 3-34-15 तं संधिमास्थायेति झ. ट. पाठः ॥ 3-34-16 पर्यमृक्षः परामृष्टवानसि। दिधक्षन् दग्धुमिच्छन् ॥ 3-34-17 आविदानो जानन्। प्राप्तं कालं कालतुल्यां विपदमभिपद्य स्वीकृत्य ॥ 3-34-18 भूयोपि बह्वपि। दूये उपतप्ये ॥ 3-34-19 बीजवापः कृषीबलः। पक्तिं फलानामिति झ. ध. पाठः ॥ 3-34-20 वैरं वैरिसमूहम्। सपुष्पं सफलं विदित्वा पुष्टतरं ज्ञात्वा यदि निकृन्तेत् छिन्द्यात् तदा हि प्रसिद्धं महागुणं महान्तं गुणं हरति आहरति ॥ 3-34-22 अमृतात् देवभावात्। कलां षोडशं भागम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.